|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.144. अध्यायः 144
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति छत्रोपानत्प्रवृत्तिप्रदाननिदानकथनाय सूर्यजमदग्निसंवादानुवादः॥ 1 ॥ जमदग्निना रेणुकायाः स्वधनुर्निस्सृतशराणां पुनःपुनरादाने नियोजनेन बाणक्रीडारम्भः॥ 2 ॥ रेणुकया सूर्यतेजः प्रतप्तशिरः पादतया तरुच्छायाश्रयणेन शरानयनविलम्बने रुष्टेन मुनिना तत्कारणप्रश्नः॥ 3 ॥ रेणुकया तन्निवेदने मुनिना कोपाच्छस्त्रेण भूमौ सूर्यनिपातनोद्यमनम्॥ 4 ॥ भयात्सूर्येण विप्ररूपधारणेन भुवमेत्य तत्प्रसादनम्॥ 5 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ।
छत्रं चोपानहौ चैव केनैतत्सम्प्रवर्तितम्॥ 13-144-1(87013)
कथं चैतत्समुत्पन्नं किमर्थं चैव दीयते।
न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते॥ 13-144-2(87014)
बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते।
एतद्विस्तरतो ब्रह्मञ्श्रोतुमिच्छामि तत्त्वतः॥ 13-144-3(87015)
भीष्म उवाच। 13-144-4x(7294)
शृणु राजन्नवहितश्छत्रोपानहविस्तरम्।
यथैतत्प्रथितं लोके यथा चैतत्प्रवर्तितम्॥ 13-144-4(87016)
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथागतम्।
सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप॥ 13-144-5(87017)
`इतिहासं पुरावृत्तमिदं शृणु नराधिप।'
जमदग्नेश्च संवादं सूर्यस्य च महात्मनः॥ 13-144-6(87018)
पुरा स भगवान्साक्षाद्धनुषा क्रीडति प्रभो।
सन्धायसन्धाय शरांश्चिक्षेप किल भार्गवः॥ 13-144-7(87019)
तान्क्षिप्तान्रेणुका सर्वांस्तस्येषून्दीप्ततेजसः।
आनीय सा तदा तस्मै प्रादादसकृदच्युत॥ 13-144-8(87020)
अथ तेन स शब्देनि ज्यायाश्चैव शरस्य च।
प्रहृष्टः सम्प्रचिक्षेप सा च प्रत्याजहार तान्॥ 13-144-9(87021)
ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे।
स सायकान्द्विजो मुक्त्वा रेणुकामिदमब्रवीत्॥ 13-144-10(87022)
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान्।
यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप॥ 13-144-11(87023)
सा गच्छन्त्यन्तरा छायां वृक्षमाश्रित्य भामिनी।
तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च॥ 13-144-12(87024)
स्थिता सा तु मूहूर्तं वै भर्तुः शापभयाच्छुभा।
ययावानयितुं भूयः सायकानसितेक्षणा।
प्रत्याजगाम च शरांस्तानादाय यशस्विनी॥ 13-144-13(87025)
सा वै प्रस्विन्नसर्वाङ्गी पद्भ्यां दुःखं नियच्छती।
उपाजगाम भर्तारं भयाद्भर्तुः प्रवेपती॥ 13-144-14(87026)
स तामृषिस्तदा क्रुद्धो वाक्यमाह शुभाननाम्।
रेणुके किं चिरेण त्वमागतेति पुनःपुनः॥ 13-144-15(87027)
रेणुकोवाच। 13-144-16x(7295)
शिरस्तप्तं प्रदीप्तौ मे पादौ चैव तपोधन।
सूर्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता॥ 13-144-16(87028)
एतस्मात्कारणाद्ब्रह्मंश्चिरायैतत्कृतं मया।
एतच्छ्रुत्वा मम विभो मा क्रुधस्त्वं पतोधन॥ 13-144-17(87029)
जमदग्निरुवाच। 13-144-18x(7296)
अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम्।
शरैर्निपातयिष्यामि सूर्यमस्त्राग्नितेजसा॥ 13-144-18(87030)
भीष्म उवाच। 13-144-19x(7297)
स विष्फार्य धनुर्दिव्यं गृहीत्वा च शरान्बहूंन्।
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः॥ 13-144-19(87031)
अथ तं प्रेक्ष्य सन्नद्धं सूर्योऽभ्येत्य वचोऽब्रवीत्।
द्विजरूपेण कौन्तेय किं ते सूर्योऽपराध्यति॥ 13-144-20(87032)
आदत्ते रश्मिभिः सूर्यो दिवि तिष्ठंस्ततस्ततः।
रसं हृतं वै वर्षासु प्रवर्षति दिवाकरः॥ 13-144-21(87033)
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम्।
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते॥ 13-144-22(87034)
अथाऽभ्रेषु निगूढश्च रश्मिभिः परिवारितः।
सप्तद्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति॥ 13-144-23(87035)
ततस्तदौषधीनां च वीरुधां पुष्पपत्रजम्।
सर्वं वर्षाभिनिर्वृत्तमन्नं सम्भवति प्रभो॥ 13-144-24(87036)
जातकर्माणि सर्वाणि व्रतोपनयनानि च।
गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः॥ 13-144-25(87037)
सत्राणि दानानि तथा संयोगा वित्तसञ्चयाः।
अन्नतः सम्प्रवर्तन्ते यथा त्वं वेत्थ भार्गव॥ 13-144-26(87038)
रमणीयानि यावन्ति यावदारम्भिकाणि च।
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते॥ 13-144-27(87039)
सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया।
प्रसादये त्वां विप्रर्षे किं ते सूर्यो निपात्यते॥ ॥ 13-144-28(87040)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुश्चत्वारिंशदधिकशततमोऽध्यायः॥ 144 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-144-2 पुण्यकेषु स्त्रीणां व्रतोत्सवेषु॥ 7-144-4 ज्येष्ठामूले दक्षिणावर्ते भ्रमम्मणे भचक्रे ज्येष्ठानां समसूत्रे पतितं रोहिणीनक्षत्रं तदेव ज्येष्ठानां मूलं। यथाश्रुतार्थग्रहणं तु न। ज्येष्ठामूलस्थेर्के हेमन्ते शिरःपाददाहस्यानवसरात्। लोके येन चैव प्रकीर्तितदिति ध.पाठः॥ 7-144-10 द्विजो विद्ध्वतिट. ध.पाठः॥ 7-144-28 किं ते सूर्यं निपात्य वै इति झ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|